|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.306. अध्यायः 306
Mahabharata - Vana Parva - Chapter Topics
कुन्तीपरिचर्यासंतुष्टेन दुर्वाससा तांप्रति अभीप्सितार्थवरणचोदना ॥ 1 ॥ तथा किंचिदप्यवृण्वन्त्यै तस्यै स्वयमेव सकलदेववशीकरणदक्षस्य मन्त्रस्योपदेशः ॥ 2 ॥ ततस्तेन कुन्तिभोजामन्त्रणपूर्वकमन्तर्धानम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-306-0x(2832)(27689)
सा तु कन्या महाराज ब्राह्मणं संशितव्रतम्।
तोषयामास शुद्धेन मनसा संशितव्रता ॥ 3-306-1(27690)
प्रातरेष्याम्यथेत्युक्त्वा कदाचिद्द्विजसत्तमः।
तत आयाति राजेन्द्र सायं रात्रावथो पुनः ॥ 3-306-2(27691)
तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः।
पूजयामास सा कन्या वर्धमानैस्तु सर्वदा ॥ 3-306-3(27692)
अन्नादिसमुदाचारः शय्यासनकृतस्तथा।
दिवसेदिवसे तस्य वर्धते न तु हीयते ॥ 3-306-4(27693)
निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा।
ब्राह्मणस्य पृथा राजन्न चकाराप्रियं तदा ॥ 3-306-5(27694)
स्वप्नकाले पुनश्चैति न चैति बहुशो द्विजः।
सुदुर्लभमपि ह्यन्नं दीयतामिति सोऽब्रवीत् ॥ 3-306-6(27695)
कृतमेव च तत्सर्वं यथा तस्मै न्यवेदयत्।
शिष्यवत्पुत्रवच्चैव स्वसृवच्च सुसंयता ॥ 3-306-7(27696)
यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा।
प्रीतिमुत्पादयामास कन्यारत्नमनिन्दिता ॥ 3-306-8(27697)
तस्यास्तु शीलवृत्तेन तुतोप द्विजसत्तमः।
अवधानेन भूयोऽस्याः परं यत्नमथाकरोत् ॥ 3-306-9(27698)
तां प्रभाते च सायं च पिता पप्रच्छ भारत।
अपितुष्यतिते पुत्रि ब्राह्मणः परिचर्यया ॥ 3-306-10(27699)
तं सा परममित्येवप्रत्युवाच यशस्विनी।
ततः प्रीतिमवापाग्र्यां कुन्तिभोजो महामनाः ॥ 3-306-11(27700)
ततः संवत्सरे पूर्णे यदाऽसौ जपतांवरः।
नापश्यद्दुष्कृतंकिंचित्पृथायाः सौहृदे रतः ॥ 3-306-12(27701)
ततः प्रीतमना भूत्वा स एनां ब्राह्मणोऽब्रवीत्।
प्रीतोस्मि परमं भद्रे परिचारेण ते शुभे ॥ 3-306-13(27702)
वरान्वृणीष्व क्रल्याणि दूरापान्मानुपैरिह।
यैस्त्वं सीमन्तिनीः सर्वायशसाऽभिमविष्यसि ॥ 3-306-14(27703)
कुन्त्युवाच। 3-306-15x(2833)
कृतानि मम सर्वाणि सस्या मे वेदवित्तम।
त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर्मम ॥ 3-306-15(27704)
ब्राह्मण उवाच। 3-306-16x(2834)
यदि नेच्छसि मत्तस्त्वं वरं भद्रे शुचिस्मिते।
इमं मन्त्रं गृहाण त्वमाह्रानाय दिवौकसाम् ॥ 3-306-16(27705)
यंयं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि।
तेनतेन वशे भद्रे स्थातव्यं ते भविष्यति ॥ 3-306-17(27706)
अकामो वा सकामो वा स समेष्यति ते वशे।
विबुधो मन्त्रसंभ्रान्तो वाक्यैर्भृत्य इवानतः ॥ 3-306-18(27707)
वैशम्पायन उवाच। 3-306-19x(2835)
न शशक द्वितीयं सा प्रत्याख्यातुमनिन्दिता।
तं वै द्विजातिप्रवरं तदा शापभयान्नृप ॥ 3-306-19(27708)
ततस्तामनवद्याङ्गीं ग्राहयामास स द्विजः।
मन्त्रग्रामं तदा राजन्नथर्वशिरसि श्रुतम् ॥ 3-306-20(27709)
तं प्रदाय तु राजेन्द्र कुन्तिभोजमुवाच ह।
उपितोस्मि सुखं राजन्कन्यया परितोपितः ॥ 3-306-21(27710)
तवगेहे सुविहितः सदा सुप्रतिपूजितः।
साधयिष्यामहे तावदित्युक्त्वाऽन्तरधीयत ॥ 3-306-22(27711)
स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा।
बभूव विस्मयाविष्टः पृथां च समपूजयत् ॥ 3-306-23(27712)
इति श्रीमन्महाभारते अरण्यपर्वणि कुण्डलाहरणपर्वणि षडधिकविशततमोऽद्यायः ॥ 306 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-306-3 प्रतिश्रयैः आश्रयैः शयनासनाद्यैः ॥ 3-306-4 अन्नादिना समुदाचारः समुपसर्पणम् ॥ 3-306-8 यथोपजोपं प्रियमनतिक्रम्य ॥ 3-306-9 शीलं शमादि। वृत्तं परिचर्या। अस्याः पृथायाः श्रोयोर्थं अवधानेन समाधिकाले यत्नमकरोत्। यत्नेन तस्याः कल्याणं चिन्तितवानित्यर्थः ॥ 3-306-19 द्वितीयं द्वितीयवारम्। न शशाक द्विजातिं सा इति थ. ध. पाटः ॥ 3-306-22 विहितः विशेषेण हितस्तृप्तः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|